Study MaterialsNCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 Kalptaru

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 Kalptaru

 

    Fill Out the Form for Expert Academic Guidance!



    +91


    Live ClassesBooksTest SeriesSelf Learning




    Verify OTP Code (required)

    I agree to the terms and conditions and privacy policy.

    Shemushi Sanskrit Class 9 Solutions Chapter 4 कल्पतरूः Kalptaru

    Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः Textbook Questions and Answers

    अभ्यासस्य प्रश्नोत्तराणि | (पृष्ठ 28-30)

    प्रश्न: 1.
    एकपदेन उत्तरं लिखत
    (क) जीमूतवाहनः कस्य पुत्रः अस्ति?
    (ख) संसारेऽस्मिन् कः अनश्वरः भवति?
    (ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?
    (घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?
    (ङ) कल्पतरुः भुवि कानि अवर्षत्?
    उत्तर:
    (क) जीमूतकेतोः
    (ख) परोपकारः
    (ग) कल्पपादम्
    (घ) यशः
    (ङ) वसूनि

     

    प्रश्न: 2.
    अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
    (क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
    (ख) जीमूतवाहनः कीदृशः आसीत्?
    (ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?
    (घ) हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
    (ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
    उत्तर:
    (क) कञ्चनपुरं नाम नगरं हिमालयस्य शिखरस्य उपरि विभाति स्म।
    (ख) जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।
    (ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत्, “ईदृशम् अमरपादपं प्राप्यापि अस्माकं पूर्वैः
    पुरुषैः तादृशं फलं किमपि न आसादितं किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः।”
    (घ) हितैषिणः मन्त्रिणः जीमूतवाहनम् उक्तवन्तः-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति सः तव सदा पूज्यः अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्” इति।
    (ङ) जीमूतवाहनः कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममेक काम पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव” इति।

    प्रश्न: 3.
    अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
    (क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।
    (ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?
    (ग) अयं तव सदा पूज्यः
    (घ) तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
    उत्तर:
    (क) तस्य — हिमालयपर्वताय (हिमवते)
    (ख) तं — जीमूतवाहनाय
    (ग) अयं — कल्पतरवे
    (घ) त्वं — जीमूतकेतवे/पित्रे

    प्रश्न: 4.
    अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत
    (क) पर्वतः — …………..
    (ख) भूपतिः — …………..
    (ग) इन्द्रः — …………..
    (घ) धनम् — …………..
    (ङ) इच्छितम् — …………..
    (च) समीपम् — …………..
    (छ) धरित्रीम् — …………..
    (ज) कल्याणम् — …………..
    (झ) वाणी — …………..
    (ञ) वृक्षः — …………..
    उत्तर:
    (क) पर्वतः — नग:
    (ख) भूपतिः — राजा
    (ग) इन्द्रः — शक्रः
    (घ) धनम् — वसूनि
    (ङ) इच्छितम् — अभीष्टम्
    (च) समीपम् — अन्तिकम्
    (छ) धरित्रीम् — पृथ्वीम्
    (ज) कल्याणम् — हितम्
    (झ) वाणी — वाक्
    (ञ) वृक्षः — तरुः

    प्रश्नः 5.
    ‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचितं योजयत
    ‘क’ स्तम्भ — ‘ख’ स्तम्भ
    कुलक्रमागतः — परोपकारः
    दानवीरः — मन्त्रिभिः
    हितैषिभिः — जीमूतवाहनः
    वीचिवच्चञ्चलम् — कल्पतरुः
    अनश्वरः — धनम्
    उत्तर:
    ‘क’ स्तम्भ — ‘ख’ स्तम्भ
    कुलक्रमागतः — कल्पतरुः
    दानवीरः — जीमूतवाहनः
    हितैषिभिः — मन्त्रिभिः
    वीचिवच्चञ्चलम् — धनम्
    अनश्वरः — परोपकारः

    प्रश्न: 6.
    स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
    (क) तरोः कृपया सः पुत्रम् अप्राप्नोत्।
    (ख) सः कल्पतरवे न्यवेदयत्।
    (ग) धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
    (घ) कल्पतरुः पृथिव्यां धनानि अवर्षत्।
    (ङ) जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
    उत्तर:
    (क) कस्य कृपया सः पुत्रम् अप्राप्नोत्?
    (ख) सः कस्मै न्यवेदयत्?
    (गं) कया कोऽपि दरिद्रः नातिष्ठत्?
    (घ) कल्पतरुः कुत्र धनानि अवर्ष?
    (ङ) कया जीमूतवाहनस्य यशः प्रासरत्?

    प्रश्नः 7.
    (क) “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता! एवमेव (कोष्टकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
    (क) स्वस्ति ………… (राजा)
    (ख) स्वस्ति ………… (प्रजा)
    (ग) स्वस्ति ………… (छात्र)
    (घ) स्वस्ति … (सर्वजन)
    उत्तर:
    (क) स्वस्ति राजभ्यः।
    (ख) स्वस्ति प्रजाभ्यः।
    (ग) स्वस्ति छात्रेभ्यः।
    (घ) स्वस्ति सर्वजनेभ्यः।

    (ख) कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
    (क) तस्य …………….. उद्याने कल्पतरुः आसीत्। (गृह)
    (ख) सः …………….. अन्तिकम् अगच्छत्। (पितृ)
    (ग) …………….. सर्वत्र यशः प्रथितम् (जीमूतवाहन)
    (घ) अयं ………………. तरुः? (किम्)
    उत्तर:
    (क) तस्य गृहस्य उद्याने कल्पतरुः आसीत्।
    (ख) सः पितुः अन्तिकम् अगच्छत्।
    (ग) जीमूतवाहनस्य सर्वत्र यशः प्रथितम्।
    (घ) अयं कस्य तरुः?

    Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः Additional Important Questions and Answers

    पठित-अवबोधनम्
    I. पठित-सामग्र्याम् आधारितम् अवबोधनकार्यम्

    अधोलिखितान् गद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

    (क) अस्ति हिमवान् नाम सर्वरत्नभूमिः नगेन्द्रः। तस्य सानोः उपरि विभाति कञ्चनपुरं नाम नगरम्। तत्र जीमूतकेतुः इति श्रीमान् विद्याधरपतिः वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्। सः जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।

    प्रश्ना :
    I. एकपदेन उत्तरत
    (i) जीमूतकेतुः कुत्र वसति स्म?
    (ii) जीमूतकेतोः पुत्रः कः आसीत्?
    उत्तर:
    (i) कञ्चनपुरे
    (ii) जीमूतवाहनः

    II. पूर्णवाक्येन उत्तरत
    जीमूतवाहनः कीदृशः आसीत्?
    उत्तर:
    जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।

    III. यथानिर्देशम् शुद्धम् उत्तरम् विकल्पेभ्यो चित्वा लिखत
    (i) ‘प्राप्नोत्’ इति क्रियापदस्य कर्तृपदम् किम्?
    (क) सः राजा
    (ख) कल्पतरुम्
    (ग) पुत्रं
    (घ) तम्
    उत्तर:
    (क) सः राजा

    (ii) ‘कल्पतरुः’ इति पदस्य विशेषणपदम् किम्?
    (क) स्थितः
    (ख) गृह
    (ग) उद्याने
    (घ) कुलक्रमागतः
    उत्तर:
    (घ) कुलक्रमागतः

    (iii) ‘शिखरस्य’ इत्यर्थे किं पदं प्रयुक्तम्?
    (क) सानोः
    (ख) सानोरूपरि
    (ग) हिमवान्
    (घ) नगेन्द्रः
    उत्तर:
    (क) सानोः

    (iv) ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
    (क) नगेन्द्राय
    (ख) जीमूतवाहनाय
    (ग) जीमूतकेतवे
    (घ) जीमूतकेतुः
    उत्तर:
    (ग) जीमूतकेतवे

    (ख) तस्य गुणैः प्रसन्नः स्वसचिवैश्च प्रेरितः राजा कालेन सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्। कदाचित् हितैषिणः पितृमन्त्रिणः यौवराज्ये स्थितं तं जीमूतवाहनं उक्तवन्तः – “युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पूज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्” इति।

    प्रश्ना :
    I. एकपदेन उत्तरत
    (i) राजा कम् यौवराज्ये अभिषिक्तवान्?
    (ii) कः सदैव पूज्यः?
    उत्तर:
    (i) जीमूतवाहनम्
    (ii) कल्पतरुः

    II. पूर्णवाक्येन उत्तरत
    हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवान्?
    उत्तर:
    हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवान्-“योऽयं सर्वकामदः कल्पतरु तवोधाने तिष्ठति सः तव सदा पूज्यः। अस्मिन् अनुकूले स्थिते शक्रः अपि नास्मान् बाधितुम् शक्नुयात्।”

    III. निर्देशानुसारं उत्तरत
    (i) ‘तस्य गुणैः ……!” अत्र ‘तस्य’ सर्वनामपदम् कस्मै प्रयुक्तम्।
    (क) जीमूतवाहनाय
    (ख) जीमूतवाहनस्य
    (ग) जीमूतवाहनः
    (घ) जीमूतवाहनम्
    उत्तर:
    (क) जीमूतवाहनाय

    (ii) ‘कल्पतरुः’ इति पदस्य विशेषणपदं किम्?
    (क) तव
    (ख) उद्याने
    (ग) सर्वकामदः
    (घ) तिष्ठति
    उत्तर:
    (ग) सर्वकामदः

    (iii) ‘शक्नुयात्’ इति क्रियापदस्य कर्तृपदं किम्?
    (क) अस्मिन्
    (ख) अनुकूले
    (ग) शक्रः
    (घ) अस्मान्
    उत्तर:
    (ग) शक्रः

    (iv) ‘इन्द्रः’ इति पदस्य पर्यायपदं किम्?
    (क) शक्रः
    (ख) शक्रोऽपि
    (ग) पूज्यः
    (घ) कामदः उत्तराणि
    उत्तर:
    (क) शक्रः

    (ग) एतत् आकर्ण्य जीमूतवाहनः अचिन्तयत्-“अहो ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैः अस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहम् अस्मात् कल्पतरोः अभीष्टं साधयामि” इति। एवम् आलोच्य सः पितुः अन्तिकम् आगच्छत्। आगत्य च सुखमासीनं पितरम् एकान्ते न्यवेदयत् कल्पतरु

    प्रश्ना :
    I. एकपदेन उत्तरत
    (i) पितुः समीपम् कः अगच्छत्?
    (ii) कः अचिन्तयत्?
    उत्तर:
    (i) जीमूतवाहनः
    (ii) जीमूतवाहनः

    II. पूर्णवाक्येन उत्तरत
    अमरपादपं प्राप्यापि पूर्वैः पुरुषैः किम् कृतम्?
    उत्तर:
    अमरपादपं प्राप्यापि पूर्वैः पुरुषैः तादृशं फलं किमपि न प्राप्तम् किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः।

    III. यथानिर्देशम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
    (i) ‘पितरम्’ इति पदस्य विशेषणपदम् किम्?
    (क) सुखमासीनं
    (ख) आगत्य
    (ग) एकान्ते
    (घ) न्यवेदयत्।
    उत्तर:
    (क) सुखमासीनं

    (ii) ‘साधयामि’ इति क्रियापदस्य कर्तृपदं किम्?
    (क) तत्
    (ख) अहम्
    (ग) अस्मात्
    (घ) मनोरथः
    उत्तर:
    (ख) अहम्

    (iii) ‘समीपम्’ इति पदस्य पर्यायपदं किम्?
    (क) सुखम्
    (ख) आसीनं ।
    (ग) अन्तिकम्
    (घ) रन्तिकम्
    उत्तर:
    (ग) अन्तिकम्

    (iv) ‘पूर्वैः’ इति पदस्य विशेष्यपदं किम्?
    (क) पुरुषैः
    (ख) पुरुषैर
    (ग) तादृशं
    (घ) अस्माकं
    उत्तर:
    (क) पुरुषैः

    (घ) अथ पित्रा ‘तथा’ इति अभ्यनुज्ञातः स जीमूतवाहनः कल्पतरुम् उपगम्य उवाच – “देव! त्वया अस्मत्पूर्वेषाम् अभीष्टा: कामाः पूरिताः, तन्ममैकं कामं पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि, तथा करोतु देव” इति। एवंवादिनि जीमूतवाहने “त्यक्तस्त्वया एषोऽहं यातोऽस्मि” इति वाक् तस्मात् तरोः उदभूत्। क्षणेन च स कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्। ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।

    प्रश्ना:

    I. एकपदेन उत्तरत
    (i) जीमूतवाहनः कस्य समीपं गच्छति स्म?
    (ii) कस्य यशः सर्वत्र प्रथितम्?
    उत्तर:
    (i) कल्पतरोः
    (ii) जीमूतवाहनस्य

    II. पूर्णवाक्येन उत्तरत
    जीमूतवाहनः कल्पतरुम् किम् अकथयत्?
    उत्तर:
    जीमूतवाहनः कल्पतरुम् अकथयत्, “त्वया अस्मत् पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय। यथा पृथ्वीमदरिद्रां पश्यामि तथा करोतु देव” इति।

    III. यथानिर्देश शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
    (i) ‘धनानि’ इत्यर्थे किम् पदम् प्रयुक्तम्?
    (क) दिवं
    (ख) कल्पतरु
    (ग) वसूनि
    (घ) भुवि
    उत्तर:
    (ग) वसूनि

    (ii) ‘त्यक्तः त्वया….।’ अस्मिन् वाक्ये ‘त्वया’ इति सर्वनाम पदं कस्मै प्रयुक्तम्?
    (क) जीमूतवाहनाय
    (ख) जीमूतकेतवे
    (ग) कल्पतरवे
    (घ) कल्पतरुः
    उत्तर:
    (क) जीमूतवाहनाय

    (iii) ‘यातोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदं किम्?
    (क) त्वया
    (ख) अहम्
    (ग) एषः
    (घ) त्यक्तः
    उत्तर:
    (ख) अहम्

    (iv) ‘काम’ इति पदस्य विशेषणपदं किम्?
    (क) एकम्
    (ख) ममैकं
    (ग) तन्ममैकं
    (घ) तन्मम
    उत्तर:
    (क) एकम्

    II. प्रश्ननिर्माणम्

    अधोलिखितवाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत उत्तराणि

    (i) जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
    (ii) जीमूतवाहनः महान् दानवीरः आसीत्।
    (iii) पूर्वैः पुरुषैः किमपि फलम् न आसादितम्।
    (iv) जीमूतवाहनः पितुः अन्तिकम् अगच्छत्।
    (v) अस्मिन् संसारे परोपकारः अनश्वरः अस्ति।
    प्रश्ना :
    (i) कस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्?
    (ii) जीमूतवाहनः कीदृशः आसीत्?
    (iii) कैः किमपि फलम् न आसादितम्?
    (iv) जीमूतवाहनः कस्य अन्तिकम् अगच्छत्?
    (v) अस्मिन् संसारे परोपकारः कीदृशः अस्ति?

    III. कथाक्रमसंयोजनम्

    घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

    (i) “दैव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय।”
    (ii) ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।
    (iii) क्षणेन च सः कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्।
    (iv) ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं किमपि न प्राप्तम्।
    (v) “युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति सः तव सदा पूज्यः।”
    (vi) तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः।
    (vii) सः राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्।
    (vi) कञ्चनपुरे जीमूतकेतुः इति श्रीमान् विद्याधरपतिः वसति स्म।
    उत्तर:
    (i) कञ्चनपुरे जीमूतकेतुः इति श्रीमान् विद्याधरपतिः वसति स्म।
    (ii) तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः।
    (iii) सः राजा जीमूतकेतुः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्।
    (iv) “युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति सः तव सदा पूज्यः।”
    (v) ईदृशम् अमरपादपम् प्राप्यापि पूर्वैः पुरुषैरस्माकं तादृशं फलं किमपि न प्राप्तम्।
    (vi) “दैव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः, तन्ममैकं कामं पूरय।”
    (vi) क्षणेन च सः कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गतः आसीत्।
    (viii) ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।

    IV. प्रसंगानुकूलम् उचितार्थम्

    I. रेखांकित पदानाम् प्रसंगानुसार शुद्धं अर्थ चित्वा लिखत
    (i) तस्य सानोः उपरि कञ्चनपुरं नाम नगरम् विभाति।
    (क) शिखरस्य
    (ख) समीपम्
    (ग) शिखरम्
    (घ) शिरसि
    उत्तर:
    (क) शिखरस्य

    (ii) सर्वं धनं वीचिवत् चञ्चलम् अस्ति।
    (क) विचलितः
    (ख) तरङ्गवत्
    (ग) चलितं
    (घ) तरङ्गाः
    उत्तर:
    (ख) तरङ्गवत्

    (iii) कल्पतरुः वसूनि अवर्षत्।
    (क) वस्त्रम्
    (ख) वसवः
    (ग) धनानि
    (घ) वस्त्रणि
    उत्तर:
    (ग) धनानि

    (iv) वाक् तरोः उद्भूत्।
    (क) वृक्षः
    (ख) तरु
    (ग) वृक्षस्य
    (घ) वृक्षात्
    उत्तर:
    (घ) वृक्षात्

    (v) हिमवान् नगेन्द्रः अस्ति।
    (क) पर्वतराजः
    (ख) नरेन्द्रः
    (ग) पर्वतः
    (घ) नद्यः
    उत्तर:
    (क) पर्वतराजः

    V. पर्यायपदानि/विलोमपदानि

    प्रश्न: 1.
    अधोलिखितपदानां पर्यायपदानि लिखत
    नगेन्द्रः, इन्द्रः, वृक्षः, भूपतिः
    उत्तर:
    नगेन्द्रः — पर्वतः, शैलः. गिरि।
    इन्द्रः — शक्रः, देवराजः, सुरेशः।
    वृक्षः — तरुः, द्रुमः, विटपः।
    भूपतिः — महीपालः, नृपः, भूपः।

    प्रश्न: 2.
    अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
    प्रसन्नः, आसीत्, यादृशं, अनश्वरः, नरकम्
    पदानि — विलोमशब्दाः
    (क) अस्ति — …………..
    (ख) अप्रसन्नः — …………..
    (ग) तादृशं — …………..
    (घ) नश्वरः — …………..
    (ङ) दिवम् — …………..
    उत्तर:
    पदानि — विलोमशब्दाः
    (क) अस्ति — आसीत्
    (ख) अप्रसन्नः — प्रसन्नः
    (ग) तादृशं — यादृशम्
    (घ) नश्वरः — अनश्वरः
    (ङ) दिवम् — नरकम्

    Chat on WhatsApp Call Infinity Learn