CBSE Class 11 Sanskrit अपठितांशावबोधनम्
1. अधोलिखितं गद्यांशम् आधृत्य प्रश्नान् उत्तरतव्यायामस्य अनेकविधता प्रत्यक्षं दृश्यते। तयोः एका पौरस्त्या, अपरा च पाश्चात्या। पौरस्त्यः व्यायामः प्रायेण बाह्यसाधनानि न्यूनात् न्यूनम् अपेक्षते। योगव्यायामः अद्वितीया विधा। एतस्यां विधायां पर:शतानाम् आसनानाम् उपयोगः भवति। आसनैः शरीरस्य आमूलचूलं सम्यग् व्यायामो जायते। योगासनेन सह प्राणायामस्य अपि सम्बन्धो वर्तते। सम्यग् व्यायामेन रुधि रस्य सम्यक् अनिरुद्धश्च सञ्चारो जायते। तेन च सर्वाणि इन्द्रियाणि तिष्ठन्ति। कार्य कुशलता जायते। ‘योगः कर्मसु कौशलम्’ इति कथितम् गीतायाम्। तेन बुद्धिः अप्रतिहता तिष्ठति। उदरं न परिवर्धते। परिवृद्धम् उदरं संकोचं गच्छति। उरसि शक्तिः स्फीतता च जायते। स्कन्धद्वयं दृढं पुष्टं सशक्तं च भवति। चक्षुः स्फारीभवति। मस्तिष्कम् उर्वरं तिष्ठति। कबड्डी, खो-खो, धावनम्, मल्लयुद्धम्, दण्डचालनम् इत्यादयः पौरस्त्याः व्यायामाः सन्ति। एभिः व्यायामैः विनाधिकं व्ययं अधिकाधिकं फलम् अस्ति।
I. एकपदेन उत्तरत –
(i) व्यायामेन कार्ये किं जायते?
(ii) व्यायामेन कीदृशम् उदरं संकोचं गच्छति?
(iii) व्यायामेन मस्तिष्कं कीदृशं भवति?
(iv) केन बुद्धिः अप्रतिहता तिष्ठति?
उत्तर:
(i) कुशलता
(ii) परिवृद्धम्
(iii) उर्वरं
(iv) व्यायामेन।
II. पूर्णवाक्येन उत्तरत –
(i) कैः व्यायामैः विनाधिकं व्ययं अधिकाधिकं फलम् अस्ति?
(ii) कैः शरीरस्य आमूलचूलं सम्यग् व्यायामो जायते?
उत्तर:
(i) पौरस्त्यैः व्यायामैः विनाधिकं व्ययं अधिकाधिकं फलम् अस्ति।
(ii) आसनैः शरीरस्य आमूलचूलं सम्यग् व्यायामो जायते।
III. निर्देशानुसारम् उत्तरत –
(i) ‘आसनानाम्’ इति पदस्य अत्र किं विशेषणं प्रयुक्तम्?
(क) शतानाम्
(ख) पर:शतानाम्
(ग) एतस्यां
(घ) उपयोगः
उत्तर:
(ख) पर:शतानाम्
(ii) ‘रक्तस्य’ इति अर्थ अत्र किं पर्यायपदं प्रयुक्तम्?
(क) निरुद्धश्च
(ख) रुद्धश्च
(ग) निरुद्धः
(घ) रुधिरस्य
उत्तर:
(घ) रुधिरस्य
(iii) ‘अस्वस्थानि’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्?
(क) स्वस्थानि
(ख) सर्वाणि
(ग) इन्द्रियाणि
(घ) साधनानि
उत्तर:
(क) स्वस्थानि।
(iv) एतस्यां विधायाम्’ अत्र ‘एतस्यां’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) योगाय
(ख) व्यायामाय
(ग) योगव्यायामाय
(घ) आसल्यम्
उत्तर:
(ग) योगव्यायामाय।
IV. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं चित्वा लिखत।
(क) योगस्य आसनानि
(ख) व्यायामस्य महत्त्वम्
(ग) आसनानाम् उपयोगिता
(घ) व्यायामस्य अनेकविधता
उत्तर:
(ख) व्यायामस्य महत्त्वम्।
2. ‘कबड्डी’ इति क्रीडा श्वासावरोधक्रीडा वर्तते। ये क्रीडकाः श्वासावरोधने दक्षाः ते अस्याम् अतीव निपुणाः सन्ति। अस्यां क्रीडायां दलद्वयम् वर्तते। क्रीडाक्षेत्रं सीमितं वर्तते। समस्तं क्रीडाक्षेत्रं द्वयोः समानभागयोः विभक्तं वर्तते। द्वयोः भागयोः मध्ये स्थिता ‘पाला’ नाम्नी रेखा वर्तते। अस्याः रेखायाः अग्रतः द्वयोः पक्षयोः पार-रेखाद्वयं वर्तते। प्रत्येकदले प्रायेण नव-नव क्रीडकाः सन्ति। कदाचित् एतेषां क्रीडकानां संख्या प्रत्येकं भागे एकादश एव वर्तते। यदा इयं क्रीडा प्रारभ्यते तदा एकभागस्य एकः क्रीडकः द्वितीयभागस्य क्रीडकानाम् अग्रे ‘कबड्डी-कबड्डी’ इति वदन् गच्छति तेषु च एकम् एकाधिकं वा क्रीडकं स्पृष्ट्वा प्रत्यावर्तते। पुनः श्वासग्रहणं विनैव सः तान् स्पृष्ट्वा मध्यरेखां यावत् प्रत्यागच्छति। द्वितीयभागस्य क्रीडकाः तं ग्रहीतुं यतन्ते परं सः तेभ्यः आत्मानं रक्षित्वा स्वदलं प्रत्यावर्तते। सः यान्-यान् स्पृशति ते उपविशन्ति, तत्कारणात् च तेषाम् अंकहानिः अपि भवति। यदि श्वासावरोधकः क्रीडकः द्वितीयपक्षस्य क्रीडकैः गृह्यते तदा सः क्रीडकः एव उपविशति अंकहानिं च करोति। तदनन्तरं द्वितीयपक्षस्य क्रीडकः तादृशमेव करोति। एवं निश्चितकालावधिं क्रीडन्तः यस्य पक्षस्य क्रीडकाः अधिकान् अंकान् प्राप्नुवन्ति सः पक्षः एव विजयी भवति।
I. एकपदेन उत्तरत –
(i) मध्यरेखायाः अग्रतः द्वयोः पक्षयोः किं वर्तते?
(ii) प्रत्येकभागे क्रीडकानां संख्या कति वर्तते?
(iii) कस्यां क्रीडायां दलद्वयं वर्तते?
(iv) किं वदन् क्रीडकः द्वितीयभागस्य क्रीडकानाम् अग्रे गच्छति?
उत्तर:
(i) पार-रेखाद्वयं
(ii) नव
(iii) कबड्डी-क्रीडायाम्
(iv) कबड्डी-कबड्डी।
II. पूर्णवाक्येन उत्तरत –
(i) नवक्रीडकानां स्थाने कदाचित् कति क्रीडकाः प्रत्येकं भागे क्रीडन्ति?
(ii) क: पक्षः विजयी भवति?
उत्तर:
(i) नवक्रीडकानां स्थाने कदाचित् प्रत्येकं भागे एकादश क्रीडकाः क्रीडन्ति।
(ii) निश्चितकालावधि क्रीडन्तः यस्य पक्षस्य क्रीडकाः अधिकान् अङ्कान् प्राप्नुवन्ति सः पक्षः एव विजयी भवति।
III. ‘सः तान् स्पृष्ट्वा’ अत्र ‘तान्’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) द्वितीयभागस्य क्रीडकेभ्यः
(ख) द्वितीयेभ्यः
(ग) क्रीडकेभ्यः
(घ) एकस्य भागस्य क्रीडकेभ्यः
उत्तर:
(क) द्वितीयभागस्य क्रीडकेभ्यः।
IV. भाषिक कार्यम् –
(i) ‘श्वासावरोधकः’ इति पदस्य अत्रं किं विशेष्यपदं प्रयुक्तम्?
(क) क्रीडकाः
(ख) विजयी
(ग) क्रीडकः
(घ) अग्रतः
उत्तर:
(ग) क्रीडकः
(ii) ‘तत्पश्चात्’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
(क) तदा
(ख) तदनन्तरं
(ग) पुनः
(घ) पश्चात्
उत्तर:
(ख) तदनन्तरं
(iii) ‘असीमितम्’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्?
(क) समस्तं
(ख) अधिकं
(ग) न्यूनं
(घ) सीमितम्
उत्तर:
(घ) सीमितम्।
V. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं चित्वा लिखत।।
(क) कबड्डी
(ख) प्रमुखः खेलः
(ग) कबड्डी क्रीडा
(घ) कबड्डी क्रीडायाः महत्त्वम्
उत्तर:
(ग) कबड्डी क्रीडा।
3. किमिदम् अनुशासनम् इति। शासन-पदस्य अर्थः ‘आज्ञा’ इति। अनुशासनपदस्य अर्थः आज्ञा-पालनम्’ इति। आज्ञापालनम्, नियम-पालनम् इत्यादयः गुणाः अनुशासने समायान्ति। वयं भारतीयाः स्वतन्त्रराष्ट्रस्य नागरिकाः स्मः। अस्माकम् एकं संविधानम् अस्ति। तत्र नागरिकैः अनुवर्तनीयाः बहवः नियमाः सन्ति। अनुशासितनागरिकस्य इदं कर्तव्यम् अस्ति यत् सः स्व-संविधाने स्वीकृतान् नियमान् पालयतु। यदि सः तथा करोति तदा तस्य देशः समुन्नतिं करोति, नागरिकाणां च जीवन सुखमयं भवति। तेन तस्यापि जीवनं सुखम् आवहति। यदि सः अनुशासनहीनता प्रदर्शयति, यानि कार्याणि आरक्षिजनैः करणीयानि तानि सः स्वयमेव कर्तुम् उत्सहते तदा राष्ट्रजीवनम् संकटोपपन्नं जायते। ईदृशम् अवसरम् प्रतीक्षमाणाः शत्रवः स्वपक्षे तस्य लाभं प्राप्नुवन्ति।
I. एकपदेन उत्तरत –
(i) अनुशासनपदस्य अर्थः कः?
(ii) नागरिकैः अनुवर्तनीयाः नियमाः कुत्र सन्ति?
(iii) केन सर्वेषां जीवन सुखमयं भवति?
(iv) के स्वपक्षे नागरिकाणाम् अनुशासनहीनतायाः लाभं प्राप्नुवन्ति?
उत्तर:
(i) आज्ञापालनम्
(ii) संविधाने
(iii) अनुशासनेन
(iv) शत्रवः।
II. पूर्णवाक्येन उत्तरत –
(i) अनुशासने के गुणाः समायान्ति?
(ii) अनुशासित नागरिकस्य किं कर्त्तव्यम् अस्ति?
उत्तर:
(i) आज्ञापालनम्, नियमपालनम् इत्यादयः गुणाः अनुशासने समायान्ति।
(ii) अनुशासितनागरिकस्य इदं कर्त्तव्यम् अस्ति यत् सः स्व-संविधान-स्वीकृतान् नियमान् पालयतु।
III. ‘अस्माकम् एकं’ अत्र ‘अस्माकम्’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) भारतीयेभ्यः
(ख) विदेशीयेभ्यः
(ग) जनेभ्यः
(घ) नरेभ्यः
उत्तर:
(क) भारतीयेभ्यः
IV. भाषिक कार्यम् –
(i) ‘शत्रवः’ इति पदस्य अत्र किं विशेषणपदं प्रयुक्तम्?
(क) प्रतीक्षमाणाः
(ख) निरीक्ष्यमाणाः
(ग) दृश्यमाणाः
(घ) अनुवर्तनीयाः
उत्तर:
(क) प्रतीक्षमाणाः
(ii) ‘संकटग्रस्तम्’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
(क) संकटयुक्तम्
(ख) संकटापन्नम्
(ग) संकटोपपन्नम्
(घ) विपद्ग्रस्तम्
उत्तर:
(ग) संकटोपपन्नम्
(iii) अवनतिम्’ इति पदस्य अत्र किं विपर्यय पदं प्रयुक्तम्?
(क) उन्नतिम्
(ख) समुन्नतिम्
(ग) अनुन्नतिम्
(घ) पदोन्नति
उत्तर:
(ख) समुन्नतिम्।
V. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं चित्वा लिखत।
(क) अनुशासनम्
(ख) अनुशासनस्य लाभाः अथवा अनुशासनस्य महत्त्वम्
(ग) अनुशासनस्य पालनम्
(घ) अनुशासनहीनता
उत्तर:
(ख) अनुशासनस्य महत्त्वम् अथवा अनुशासनस्य लाभाः।
4. ‘हर की पैडी’ इति स्थाने स्नानार्थम् सहस्रशः जनाः पंक्तिबद्धाः एकैकशः कृत्वा शनैः शनैः अग्रे गच्छन्तः प्रसिद्धां गंगामन्दिरनिकटस्थां स्नानभूमिं गच्छन्ति स्म। अहमपि होरानन्तरं तत्स्थानं गतः। अत्र श्रद्धालवः पूजा-पिण्डदानस्नान-मन्त्रपाठादिषु धार्मिककृत्येषु व्यापृताः तिष्ठन्तः कुम्भपर्वणः पुण्यम् अर्जयन्ति स्म। मयाऽत्र पञ्चदशपलेभ्यो वेदपाठं विधाय स्नानं कृतम्। ततोऽहं ‘सप्तर्षिमन्दिरम्’ इति स्थानम् उपगम्य ऋषीणां मूर्तिदर्शनं कुर्वन् भित्तिषु लिखितान् श्लोकान् मन्त्रांश्च पठन् अभिनन्दन् च गीता-मन्दिरम् उपागतः। तत्पश्चादह, नृसिंहमन्दिरं प्रयातः। अत्र नृसिंहावतारस्य विशालं चित्रं तद्विषयिकी कला च भित्तिषु अंकिता दृष्टा। गंगामन्दिरे श्रीगंगामातुः धवलधारं चित्रम् अतीव रम्यम् आसीत्। अत्रापि गंगालहरी इत्याख्या स्तुतिः मन्दिरभित्तिषु लब्धा। हरिद्वारे अन्यानि अपि तीर्थस्थलानि मन्दिराणि च मया दृष्टानि। सर्वत्र यात्रिणां पवित्रभावान् दृष्ट्वा मम मनः पुलकितं जातम्।
I. एकपदेन उत्तरत –
(i) श्रीगंगामातुः धवलधारं चित्रं कुत्रास्ति?
(ii) ‘गंगालहरी’ इत्याख्या स्तुतिः कुत्र वर्तते?
(iii) सप्तर्षिमन्दिरे केषां मूर्तीनां दर्शनं भवति?
(iv) ‘हर की पैडी’ इति स्थानं कुत्र वर्तते?
उत्तर:
(i) गंगामन्दिरे
(ii) मन्दिरभित्तिषु
(iii) ऋषीणां
(iv) हरिद्वारे।
II. पूर्णवाक्येन उत्तरत –
(i) किं दृष्ट्वा मम मनः पुलकितं जातम्?
(i) नरसिंहमन्दिरे किं दर्शनीयम् अस्ति?
उत्तर:
(i) सर्वत्र यात्रिणां पवित्रभावान् दृष्ट्वा मम मनः पुलकितं जातम्।
(ii) नरसिंहमन्दिरे नृसिंहावतारस्य विशालं चित्रं भित्तिषु च तद्विषयिकी कला दर्शनीया अस्ति।
III. ‘तत्स्थानं गतः’ इति अत्र ‘तत्स्थानम्’ इति पदं कस्मै प्रयुक्तम्?
(क) गंगा मन्दिराय
(ख) ‘स्नान भूमिम्’ इति स्थानाय
(ग) ‘हर की पैडी’ इति स्थानाय
(घ) गंगा तटाय
उत्तर:
(ग) ‘हर की पैडी’ इति स्थानाय।
IV. भाषिक कार्यम् –
(i) ‘स्नान भूमिम्’ इति पदस्य अत्र किं विशेषणपदं प्रयुक्तम्?
(क) गच्छन्तः
(ख) प्रसिद्धाम्
(ग) गंगा मन्दिर निकटस्थां
(घ) निकटस्थां
उत्तर:
(ख) प्रसिद्धाम्
(ii) ‘रोमाञ्चितम्’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
(क) पुलकितम्
(ख) मनः
(ग) प्रसन्नम्
(घ) आनन्दितम्
उत्तर:
(क) पुलकितम्
(iii) ‘दूषितभावान्’ इति पदस्य अत्र किं विपर्यय प्रयुक्तम्?
(क) प्रदूषित भावान्
(ख) पवित्र भावान्
(ग) रम्य भावान्
(घ) शुद्ध भावान्
उत्तर:
(ख) पवित्रभावान्।
V. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखता –
(क) मम हरिद्वार यात्रा
(ख) दर्शनीयः हरिद्वारः
(ग) सुरम्याणि मन्दिराणि
(घ) दर्शनीयं तीर्थस्थलम्
उत्तर:
(क) मम हरिद्वार यात्रा।
5 नागरिकाः अनुशासनस्य शिक्षा बाल्यावस्थायां, विशेषतः छात्रावस्थायामेव ग्रहीतुं पारयन्ति। परम् अधुना छात्रजीवनम् अपि विषमं जायते। शिक्षाक्षेत्रे राजनीतेः अनुचितः हस्तक्षेपः जायते। न केवलं विरोधपंक्षेन एव छात्राणाम् स्वपक्षे उपयोगः क्रियते अपितु शासकदलेन अपि स्वसत्तां स्थिरीकरणाय तस्यां छात्राणाम् उपयोगः क्रियते। तदा छात्राणां सम्मुखे विद्यार्जनं प्रमुखम् उद्देश्यं न भवति। अधुना राजनीतौ स्वार्थः प्रबलः अस्ति, ते छात्राः येन-केन-प्रकारेण तस्यां स्वकीयं स्थानं निर्धारयितुं स्वकीयं कालं यापयन्ति। यद्यपि ईदृशानां छात्राणां संख्या स्वल्पा वर्तते तथापि ते अन्यछात्राणां मार्गे बाधाम् उपस्थापयन्ति। शासनस्य इदं कर्तव्यम् अस्ति यत् स्वदलस्य मोहं परित्यज्य विद्यार्थिनां सम्मुखे स्वकर्तव्यपरायणतायाः आदर्श समुपस्थापयेत् तदैव छात्राणां अनुशासनस्य शिक्षा प्रदेया भविष्यति।
I. एकपदेन उत्तरत –
(i) अधुना छात्रजीवनं कीदृशं जायते?
(ii) शासकदलेन विरोधपक्षेन च केषाम् उपयोगः क्रियते?
(iii) शिक्षाक्षेत्रे कस्याः अनुचितः हस्तक्षेपः जायते?
(iv) कुत्र राजनीतेः अनुचितः हस्तक्षेपः जायते?
उत्तर:
(i) विषमम्
(ii) छात्राणाम्
(iii) राजनीते:
(iv) शिक्षाक्षेत्रे।
II. पूर्णवाक्येन उत्तरत –
(i) के छात्राः राजनीतौ स्थानं निर्धारयितुं कालं यापयन्ति?
(ii) अन्यछात्राणां मार्गे के बाधाम् उपस्थापयन्ति?
उत्तर:
(i) येषाम् छात्राणां सम्मुखे प्रमुखम् उद्दिष्टं विद्यार्जनं न भवति ते राजनीतौ स्थानं निर्धारयितुं कालं यापयन्ति।
(ii) अन्यछात्राणां मार्गे ते छात्राः बाधाम् उपस्थापयन्ति ये राजनीतौ स्थानं निर्धारयितुं विद्यालयेषु कालं यापयन्ति।
III. ‘तस्याम्’ अत्र सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) राजनीतौ पदस्य कृते
(ख) छात्राणां पदस्य कृते
(ग) शिक्षायाः पदस्य कृते
(घ) शिक्षा पदस्य कृते
उत्तर:
(क) ‘राजनीतौ’ पदस्य कृते।
IV. भाषिक कार्यम् –
(i) ‘स्वकीय स्थानम्’ इति अनयोः पदयोः अत्र किं विशेषणम् अस्ति?
(क) स्वकीय
(ख) स्वकीयं
(ग) स्थानम्
(घ) स्थान
उत्तर:
(ख) स्वकीयम्
(ii) ‘दृढीकरणाय’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
(क) निश्चयाय
(ख) अवलम्बनाय
(ग) आलम्बनाय
(घ) स्थिरीकरणाय
उत्तर:
(घ) स्थिरीकरणाय
(iii) अनुच्छेदे ‘पारयन्ति’ इति क्रियायाः कर्तृपदं किम्?
(क) नागरिकाः
(ख) विशेषतः
(ग) शिक्षाम्
(घ) छात्रावस्थायाम्
उत्तर:
(क) नागरिकाः
V. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं चिनुत।
(क) छात्रजीवनस्य महत्त्वम्
(ख) छात्रजीवनस्य उद्देश्यम्/छात्रजीवने अनुशासनम्
(ग) छात्राणां राजनीतौ प्रवेशम्
(घ) छात्र-राजनीतिः
उत्तर:
(ख) छात्रजीवनस्य उद्देश्यम्/छात्रजीवने अनुशासनम्।
6. भारतस्य राजधानी नवदिल्ली इति ख्याता। अस्याः प्राचीनतमं नाम ‘इन्द्रप्रस्थम्’ इति आसीत्। यथा शरीरस्य मध्यभागे हृदये आत्पा तिष्ठति तथैव भारतदेशस्य मध्यमो भागः स एव यत्र ‘देहली’ इति नाम्ना ख्याता विशाला नगरी वर्तते। ‘देहली’ इति नाम ‘ढिल्लिका’ इति नाम्नः अपभ्रंशरूपः वर्तते। देहली नगरं भारतस्य विविध-प्रदेश-वास्तव्याः जनाः सुगमतया द्रष्टुं शक्यन्ते। अत्र चाणक्यपुर्या अन्येषामपि राष्ट्राणां राजदूतनिवासाः सन्ति। देहलीमध्ये सर्वकारस्य केन्द्रीयशासनस्य अनेके कार्यालयाः तिष्ठन्ति। तत्र बहुभूमिकानि भवनानि सत्यमेव दर्शनीयानि। एतेषु भवनेषु लोकसभा भवनम्, राजसभा भवनम् राष्ट्रपतिनिवासश्च दर्शनीयानि सन्ति। भारतस्य प्रधानमन्त्री, अन्ये च केन्द्रीय-मन्त्रिणः अपि अस्मिन् नगरे वसन्ति।
I. एकपदेन उत्तरत –
(i) भारतस्य राजधानी का?
(ii) नवदिल्ल्याः प्राचीनतमं नाम किम्?
(iii) शरीरस्य मध्यभागे कः तिष्ठति?
(iv) ‘देहली’ इति नाम कस्य पदस्य अपभ्रंशः?
उत्तर:
(i) नवदिल्ली
(ii) इन्द्रप्रस्थम्
(iii) आत्मा
(iv) ‘ढिल्लिका’ (पदस्य)।
II. पूर्णवाक्येन उत्तरत –
(i) भारतस्य प्रधानमन्त्री अन्ये च केन्द्रीय-मन्त्रिणः कुत्र वसन्ति?
(ii) नवदिल्ल्यां कानि भवनानि दर्शनीयानि सन्ति।
उत्तर:
(i) भारतस्य प्रधानमन्त्री अन्ये च केन्द्रीयमन्त्रिणः नवदिल्ल्यां वसन्ति।
(ii) राजधान्या लोकसभाभवनं, राज्यसभाभवनं, राष्ट्रपति निवासश्च इति भवनानि दर्शनीयानि सन्ति।
III. “स एव’ अत्र ‘सः’ इति पदं कस्मै प्रयुक्तम्।
(क) मध्यम भागाय
(ख) देहली स्थानाय
(ग) देहली नगराय
(घ) इन्द्रप्रस्थाय
उत्तर:
(क) मध्यम भागाय।
IV. भाषिक कार्यम् –
(i) ‘नगरे’ इति पदस्य अत्र किं विशेषणं पदं प्रयुक्तम्?
(क) अपि
(ख) एतस्मिन्
(ग) अस्मिन्
(घ) अनेके
उत्तर:
(ग) अस्मिन्
(ii) ‘एषु’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
(क) भवनेषु
(ख) एतेषु
(ग) अन्येषाम्
(घ) अन्येषु
उत्तर:
(ख) एतेषु
(iii) ‘असत्यमेव’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्?
(क) निश्चयमेव
(ख) निश्चितमेव
(ग) भारतमेव
(घ) सत्यमेव
उत्तर:
(घ) सत्यमेव
V. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं चिनुत।
(क) भारतस्य राजधानी दिल्ली
(ख) दिल्लीनगरम्
(ग) दिल्ल्याः वर्णनम्
(घ) भारतस्य राजधानी
उत्तर:
(क) भारतस्य राजधानी दिल्ली
7. वेदेषु मन्त्रद्रष्टारो यथा पुरुषाः आसन् तदैव काचन नार्योऽपि अभवन्। ब्रह्मवादिन्यः मैत्रेयीगार्गीसमा अनेकाः स्त्रियो भारतेऽभवन्। मण्डनमिश्रस्य पत्नी स्वयं परमविदुषी आसीत्। कालिदासस्य पत्नी विद्योत्तमा पण्डिता इति प्रसिद्धमेव। अतो भारतस्य वैदिकपरम्पराम् अनुरुध्य स्त्रीशिक्षा पुरुषशिक्षेव अनिवार्या। नारीशिक्षा नारीपूजैव। यत्र च नारीपूजा तत्र देवतानां वासः इति इदं ‘यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः’ इत्यनेन श्लोकखण्डेन सुतरां प्रतिपादितम्। शिक्षिता नारी शिक्षिता माता, भगिनी, पुत्री च। सा च स्वपरिवारस्य महते कल्याणाय कल्पते न च तथा अशिक्षिता नारी। सा हि शिक्षितपुरुषस्येव समाजस्यापि अलङ्क्रिया। शिक्षितया स्त्रिया समाजः स्वस्थः पुष्टः विकासोन्मुखश्च जायते। तस्मात् निजस्त्रीधनस्य रक्षापराः तिष्ठन्तो वयं तासां शिक्षाविषये अपि अप्रमत्ताः तिष्ठेम इत्येव साधुः।
I. एकपदेन उत्तरत –
(i) वेदेषु कीदृशाः पुरुषाः आसन्?
(ii) कस्य पत्नी परमविदुषी आसीत्?
(iii) यत्र नार्यः पूज्यन्ते तत्र के रमन्ते?
(iv) कीदृशी नारी परिवारस्य महते कल्याणाय कल्पते?
उत्तर:
(i) मन्त्रद्रष्टारः
(ii) मण्डनमिश्रस्य
(iii) देवताः
(iv) शिक्षिता।
II. पूर्णवाक्येन उत्तरत –
(i) शिक्षितपुरुषस्येव समाजस्य का अलङ्क्रिया?
(ii) शिक्षितया स्त्रिया समाजः कीदृशः जायते?
उत्तर:
(i) शिक्षितपुरुषस्येव शिक्षिता नारी अपि समाजस्य अलक्रिया।
(ii) शिक्षितया स्त्रिया समाजः स्वस्थः पुष्टः विकासोन्मुखश्च जायते।
III. ‘सा हि’ अत्र ‘सा’ इति सर्वनाम पदं कस्मै प्रयुक्तम्?
(क) शिक्षितायै
(ख) शिक्षिता नारी
(ग) शिक्षितनायें
उत्तर:
(ग) शिक्षितनायें।
IV. भाषिक कार्यम् –
(i) ‘कल्याणाय’ इति पदस्य अत्र किं विशेषणं प्रयुक्तम्?
(क) महते
(ख) लघु
(ग) लघवे
उत्तर:
(क) महते
(ii) ‘सावधानाः’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
(क) प्रमत्ताः
(ख) अप्रमत्ताः
(ग) रक्षापराः
उत्तर:
(ख) अप्रमत्ताः
(iii) अस्वस्थः इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्?
(क) पुष्टः
(ख) विकासोन्मुखः
(ग) प्रमत्तः
उत्तर:
(घ) स्वस्थः
V. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं चिनुत।
(क) शिक्षायाः महत्त्वम्
(ख) नारीकार्यम्
(ग) स्त्रीशिक्षा
उत्तर:
(ग) स्त्रीशिक्षा।
8. सहशिक्षा नास्त्युचिता यतो हि विविधाः बालाः विविधेभ्यः गृहेभ्यः एकत्र समेत्य विविधाः रुच्याः अतिरुच्याश्च वेशभूषाः परिधाय, विविधरूपम् आकर्षकं स्वरूपं केशविन्यासं च कृत्वा उद्भवन्तः यौवनांकुराः कामवासनाग्रस्ता अकाले एव जायन्ते। परस्परस्निग्धदृष्ट्यः अन्योन्याकर्षणतत्पराश्च शिक्षाग्रहणे प्रमत्ताः इन्द्रियजन्यसुखोत्सुकाः कालं क्षिपन्ति। तेन च ब्रह्मचर्याभावः अनुशासनहीनता च वर्धते। तत् कुतः शिक्षा? तस्मात् सुगुप्तव्यभिचारकारणात् वीर्यक्षयात् रोगवृद्ध्या च बालानां बालिकानाञ्च शालाः पृथक् दूरे च स्युः। योरोपदेशेष्वपि यौनदोषाः अनेन कारणेन एव। तस्मात् पृथक् व्यवस्थया स्वास्थ्यरक्षा, सर्वकारस्य धनरक्षा च तस्य धनस्य कश्चिदंशः पृथक् व्यवस्थाकृते कल्पेत एव। अतो नोचिता सहशिक्षा।
I. एकपदेन उत्तरत –
(i) अत्र का अनुचिता कथिता?
(ii) केषु देशेषु यौनदोषाः सहशिक्षायाः कारणेन सन्ति?
(iii) बालानां बालिकानां च शाला: कुत्र स्युः?
(iv) सहशिक्षायां छात्राः शिक्षाग्रहणे कीदृशाः भवन्ति?
उत्तर:
(i) सहशिक्षा
(ii) योरोपदेशेषु
(iii) दूरे
(iv) प्रमत्ताः
II. पूर्णवाक्येन उत्तरत –
(i) अस्मिन् गद्यांशे कस्याः दोषाः वर्णिताः सन्ति?
(ii) सहशिक्षया किं वर्धते?
उत्तर:
(i) अस्मिन् गद्यांशे सहशिक्षायाः दोषाः वर्णिताः सन्ति।
(i) सहशिक्षया ब्रह्मचर्याभावः अनुशासनहीनता च वर्धते।
III. ‘तेन च अत्र’ ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) सहशिक्षायै
(ख) सहशिक्षा दोषेभ्यः
(ग) कालाय
(घ) कर्षणतप्ररेभ्यः
उत्तर:
(ख) सहशिक्षादोषेभ्यः।
IV. भाषिक कार्यम् –
(i) वेशभूषाः’ इति पदस्य अत्र किं विशेषणं प्रयुक्तम्?
(क) विविधाः
(ख) रुच्याः
(ग) अतिरुच्याः
(घ) आकर्षकाः
उत्तर:
(ग) अतिरुच्याः
(ii) ‘असमये’ इत्यर्थे अत्र किं पर्यायं प्रयुक्तम्?
(क) अकाले
(ख) यथासमयम्
(ग) शिक्षा ग्रहणे
(घ) दूरे
उत्तर:
(क) अकाले
(iii) ‘सावधानाः’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्?
(क) नोचिताः
(ख) उचिताः
(ग) दोषाः
(घ) प्रमत्ताः
उत्तर:
(घ) प्रमत्ताः
V. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं चिनुता
(क) सहशिक्षायाः लाभाः
(ख) सहशिक्षा
(ग) सहशिक्षायाः दोषाः
(घ) सहशिक्षा लाभकरी
उत्तर:
(ग) सहशिक्षायाः दोषाः।
9. केचन सहशिक्षायाः समर्थकाः अस्माकं देशेऽपि सन्ति। तदनुसारं सहशिक्षा आवश्यकी यतो हि सहवासेन बाल: बालिकानां प्रवृत्ती: चेष्टाश्च बुध्यते। तद् बुद्ध्वा च स भविष्यजीवने गृहस्थाश्रमे यथावत् चेष्टते। तदभावे स स्त्रीप्रकृतिम् अबुद्ध्वा कुशलो गृहस्थो न स्यात्। अथ च शिक्षा बहुधनम् अपेक्षते। भारतशासनम् आर्थिकसहायतां विद्याशालाभ्यः ददाति। परं कोशे तावद् धनं न भवति यत् बालानां बालिकानाञ्च कृते पृथक्-पृथक् विद्याशालाः प्रयोगशालाश्च स्थाषिताः स्युः। तस्मात् एकस्यां विद्याशालायाम् उभयोरपि सहशिक्षा भवितुं शक्नोति अल्पेनाऽपि व्ययेन। इतरथा तु द्विगुणो व्ययो भवति। न च तावान् अर्थभारो भारतशासनेन सोढुं शक्यः। तेन सहशिक्षैव सर्वत्र चलतु इति तन्मतम्।
I. एकपदेन उत्तरत –
(i) सहवासेन कः बालिकानां प्रवृत्ती: बुध्यते?
(ii) स्त्रीप्रकृतिम् अबुद्ध्वा जनः कीदृशः गृहस्थः न भवति?
(iii) शिक्षा किम् अपेक्षते?
(iv) अर्थभारः केन सोढुं न शक्यः?
उत्तर:
(i) बालः
(ii) कुशल:
(iii) बहुधनम्
(iv) भारतशासनेन।
II. पूर्णवाक्येन उत्तरत –
(i) अल्पेन व्ययेन का शिक्षा भवितुं शक्नोति?
(ii) भारतशासनं विद्याशालाभ्यः किं ददाति?
उत्तर:
(i) अल्पेन व्ययेन सहशिक्षा भवितुं शक्नोति।
(ii) भारतशासनं विद्याशालाभ्यः आर्थिकसहायतां ददाति।
III. ‘स स्त्रीप्रकृतिम् अबुद्ध्वा ‘ अत्र ‘स’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जनाय
(ख) बालाय
(ग) युवकाय
(घ) छात्राय
उत्तर:
(ख) बालाय
IV. भाषिक कार्यम् –
(i) ‘अर्थभारः’ इति पदस्य अत्र किं विशेषणं प्रयुक्तम्?
(क) द्विगुणः
(ख) कुशलः
(ग) शक्यः
(घ) तावान्
उत्तर:
(घ) तावान्
(ii) ‘विद्यालयाः’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
(क) पाठशालाः
(ख) गुरुकुलाः
(ग) विद्याशालाः
उत्तर:
(ग) विद्याशालाः
(iii) ‘अनुच्छेदे ‘भवति’ इति क्रियायाः कर्तृ पदं किम्?
(क) व्ययः
(ख) तानि
(ग) अपव्ययः
उत्तर:
(क) व्ययः
V. अस्य अनुच्छेदस्य कृते समुचित शीर्षकं लिखत।
(क) शिक्षायाः महत्त्वम्
(ख) सहशिक्षाया लाभाः
(ग) स्त्री शिक्षा
उत्तर:
(ख) सहशिक्षायाः लाभाः।
10 प्रतिवर्ष नवम्बरमासस्य चतुर्दश्यां तारिकायां बालदिवसः सम्पूर्ण भारतदेशे सोत्साहम् उत्सवरूपेण मान्यते। एतस्यां तिथौ
स्वतन्त्रभारतस्य प्रथमप्रधानमन्त्रिणः श्रीजवाहरलालनेहरोः जन्मदिवसः वर्तते। श्रीनेहरूमहाभागः शिशुषु बालेषु च भृशं स्नेहं करोति स्म। स्वतंत्रभारतराष्ट्रास्य पुनर्निर्माणार्थ यत्र अन्येषु क्षेत्रेषु अपि विविधाः योजनाः निर्मिताः तत्र बालकानां शिशूनां विकासाय अपि अनेके कार्यक्रमोः विरचिताः। बालसुलभरुच्यानुसारं सांस्कृतिक कार्यक्रम श्रृंखला विरच्य नेहरूमहोदयः एतादृशीं प्रसिद्धिम् अवापयत् तस्मिन् उपरते अपि जनाः तस्य जन्मदिवसे एव बालविकासकार्यक्रमान् अद्य यावत् प्रचालयन्ति। तस्मिन् प्रधानमन्त्रिणि सति च न केवलं भारतदेशे एव अपितु विदेशेष्वपि बालकानां सांस्कृतिककार्यक्रमेभ्यः अपूर्वा रुचिं प्रदर्शयत्। बालकाः अपि श्रद्धाभिभूताः स्नेहवशीभूत-नेहरूमहाभागानां विनोदाय
बाललीलाः बालक्रीडाः च प्रादर्शयन्। अतएव तेषां जन्मदिवसः एव बालोत्सवरूपेण सर्वत्र सम्पद्यते।
I. एकपदेन उत्तरत –
(i) भारते नवम्बरमासस्य चतुर्दश्यां तारिकायां कः मान्यते?
(ii) बालदिवसे कस्य जन्मदिवसः वर्तते?
(iii) नेहरूमहाभागानां जन्मदिवस: बालोत्सवरूपेण कुत्र सम्पद्यते?
(iv) क: शिशुषु अतीव स्नेहं करोति स्म?
उत्तर:
(i) बालदिवसः
(ii) श्रीजवाहरलालनेहरोः
(iii) सर्वत्र
(iv) श्रीनेहरूमहाभागः।
II. पूर्णवाक्येन उत्तरत –
(i) कस्मिन् प्रधानमन्त्रिणि सति बालकाः तस्य विनोदाय बाललीलाः प्रादर्शयन्?
(ii) श्रीनेहरूमहाभागे उपरते अपि जनाः अद्ययावत् किं प्रचालयन्ति?
उत्तर:
(i) श्रीनेहरूमहाभागे प्रधानमन्त्रिणि सति बालकाः तस्य विनोदाय बाललीलाः प्रादर्शयन्।
(ii) श्रीनेहरूमहाभागे उपरते अपि जनाः अद्य यावत् बालविकास-कार्यक्रमान् प्रचालयन्ति।
III. ‘तेषा जन्मदिवसः’ अत्र ‘तेषाम्’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) श्रीनेहरूमहाभागेभ्यः
(ख) श्रीनेहरूमहोदयाय
(ग) देशभक्ताय
(घ) जनेभ्यः
उत्तर:
(क) श्रीनेहरूमहाभागेभ्यः।
IV. भाषिक कार्यम् –
(i) ‘बालकाः’ इति पदस्य अत्र किं विशेषणं प्रयुक्तम्?
(क) अभिभूताः
(ख) श्रद्धा
(ग) श्रद्धाभिभूताः
(घ) श्रद्धाः
उत्तर:
(ग) श्रद्धाभिभूताः
(ii) ‘निर्मिताः’ इत्यर्थे अत्र किं पर्यायं प्रयुक्तम्?
(क) सम्पद्यते
(ख) विरचिताः
(ग) प्रादर्शयत्
(घ) अवापयत्
उत्तर:
(ख) विरचिताः
(iii) ‘जीविते’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्?
(क) उपरते
(ख) मृते
(ग) भारतदेशे
(घ) जन्मदिवसे
उत्तर:
(क) उपरते।
V. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं चिनुत।
(क) बालोत्सवः
(ख) बालदिवसः
(ग) बालक्रीडाः
(घ) बाललीला:
उत्तर:
(ख) बालदिवसः
11. योग्यतमे शिक्षके ये गुणाः तत्त्वतः अपेक्षिताः, ते सर्वे गुणाः प्रायेण मम प्रिये शिक्षके श्रीमति आनन्दस्वरूपे दृश्यन्ते। सः स्वविषयं पूर्वतः एव सम्यक् पठित्वा कक्षायाम् आयाति। स्वविषयम् अत्यन्तेन विश्वासेन सह अध्यापयति। कठिनम् अपि विषयम् उदाहरणैः सह सरलीकृत्य उपस्थापयति। तस्य व्याख्याने छात्रजनः सावधानमनसा शृणोति। मन्दबुद्धिः अपि छात्रः सुगमतया विषयम् आकलयति। अध्यापनसमये गुरुमहाभागः पुनःपुनः प्रश्नान् करोति, तेन सर्वेऽपि छात्राः सावधानाः तिष्ठन्ति। छात्राः अपि यान् प्रश्नान् पृच्छन्ति सः तान् सम्यक् समादधते। सः प्रतिदिनं छात्राय गृहकार्यम् अपि ददाति। परस्मिन् दिने छात्राणां गृहकार्यं पश्यति। यत्र-यत्र प्रमादः वर्तते तत्र तेन निराकरणं क्रियते। छात्राणां पुनः-पुनः प्रमादं दृष्ट्वा तस्य मनः खेदं न वहति। यः छात्रः प्रमादं करोति गुरुवर्यः तं पुनः पुनः बोधयति। तस्य व्यवहारं परिश्रमं च दृष्ट्वा सर्वे छात्राः तस्य आज्ञा परिपालयन्ति।
I. एकपदेन उत्तरत –
(i) आनन्दस्वरूपः कीदृशः शिक्षकः अस्ति?
(ii) सः स्वविषयं केन सह अध्यापयति?
(iii) सः कान् सम्यक् समादधते?
(iv) छात्राणां प्रमादं दृष्ट्वा तस्य मन किं न वहति?
उत्तर:
(i) योग्यतमः
(ii) विश्वासेन
(iii) प्रश्नान्
(ii) खेदम्।
II. पूर्णवाक्येन उत्तरत –
(i) श्री आनन्दस्वरूपः प्रतिदिनं छात्रेभ्यः किं ददाति?
(ii) किं दृष्ट्वा छात्राः आनन्दस्वरूपस्य आज्ञा परिपालयन्ति?
उत्तर:
(i) श्री आनन्दस्वरूपः छात्रेभ्यः प्रतिदिनं गृहकार्य ददाति।
(ii) आनन्दस्वरूपस्य व्यवहारं परिश्रमं च दृष्ट्वा छात्राः तस्य आज्ञा परिपालयन्ति।
III. ‘सः तान् सम्यक् समादधते’ अत्र ‘तान्’ इति सर्वनामपदं कस्मै प्रयुक्तम्।
(क) छात्रेभ्यः
(ख) कार्येभ्यः
(ग) प्रश्नेभ्यः
(घ) उत्तरेभ्यः
उत्तर:
(ग) प्रश्नेभ्यः
IV. भाषिक कार्यम् –
(i) ‘दिने’ इति पदस्य अत्र किं विशेषणं प्रयुक्तम्?
(क) परस्मिन्
(ख) अपरस्मिन्
(ग) अन्यस्मिन्
(घ) एतस्मिन्
उत्तर:
(क) परस्मिन्
(ii) ‘अप्रमत्ता’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
(क) सावधानाः
(ख) असावधानाः
(ग) सावधानमनसा
(घ) प्रभत्ताः
उत्तर:
(क) सावधानाः
(iii) ‘प्रसन्नताम्’ इति पदस्य अत्र किं विलोपदं प्रयुक्तम्? –
(क) अप्रसन्नताम्
(ख) खेदम्
(ग) दुःखम्
(घ) कष्टम्
उत्तर:
(ख) खेदम्।
V. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं चिनुत।
(क) मम प्रियः शिक्षक:
(ख) आनन्द स्वरूपः शिक्षक:
(ग) प्रियः शिक्षक:
(घ) मम शिक्षकः
उत्तर:
(क) मम प्रियः शिक्षकः।
12. ग्राम्यजीवने कृषिः एव प्रमुखो व्यवसायः। अन्ये च प्रायेण कृषिकर्मसहायाः श्रमिकाः तत्र वसन्ति। केषाञ्चित् कृषकाणां समीपं तु जीवननिर्वाहात् अपि अधिका भूमिः वर्तते, परं बहूनां समीपं अत्यल्पाः भूमिखण्डाः एव सन्ति येभ्यः उत्पादितेन अन्नेन ते अतिकठिनतया निहिं कुर्वन्ति। कृषकाणां केषाञ्चित् पार्श्वे इष्टकानिर्मितम् आवासगृहं वर्तते परं बहूनां समीपं मृत्-निर्मित-कोष्ठागारा एव भवन्ति। धनाभावात् ते सुबद्धगृहनिर्माणाय न प्रभवन्ति। केचन ग्रामीणा: सन्ति ये ऋतु-अनुकूलानि वस्त्राणि धारयन्ति, पर बहूनां समीपं एका लघुशाटिका एव वर्तते। श्रमिकवर्गस्तु अत्यर्थ दारिद्र्यं गतः तिष्ठति। सः दिने द्विकृत्वः न उदरपूरं भुङ्क्ते। ईदृशः ग्रामीणजनः अशिक्षितः, रोगबहुलः, यथाकथञ्चित् जीवनयात्रां करोति। तस्य ललाटे समस्याः लिखिताः सन्ति परं न तासां समाधानम्। दारिद्र्योपहतः सः धूम्रपान-मद्यपानादिदुर्गुणैः संवीतः दर्शकानां हृदयानि द्रवयति।
I. एकपदेन उत्तरत –
(i) ग्राम्यजीवने कः प्रमुखः व्यवसाय:?
(ii) ग्रामीणजनस्य ललाटे काः लिखिताः सन्ति?
(iii) दारिद्र्योपहतः ग्रामीण: केषां हृदयानि द्रवयति?
(iv) ग्रामीणाः कीदृशानि वस्त्राणि धारयन्ति?
उत्तर:
(i) कृषिः
(ii) समस्याः
(iii) दर्शकनां
(iv) ऋतु-अनुकूलानि
II. पूर्णवाक्येन उत्तरत –
(i) ग्रामीणाः कस्मात् सुबद्धगृहनिर्माणाय न प्रभवन्ति?
(ii) ग्रामीणजनः कीदृशीं जीवनयात्रां करोति?
उत्तर:
(i) ग्रामीणाः धनाभावात् सुबद्धगृहनिर्माणाय न प्रभवन्ति।
(ii) ग्रामीणजनः अशिक्षितः, रोगबहुलः यथाकथञ्चित् जीवनयात्रां करोति।
III. ‘ये ऋतु-अनुकूलानि’ अत्र ‘ये’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) नागरिकेभ्यः
(ख) ग्रामीणेभ्यः
(ग) जनेभ्यः
(घ) श्रमिकेभ्यः
उत्तर:
(ख) ग्रामीणेभ्यः
IV. भाषिक कार्यम्
(i) ‘दारिद्र्योपहतः सः’ अनयोः विशेषणपदं किम् प्रयुक्तम्?
(क) दारिद्रयः
(ख) सः
(ग) तत्
(घ) दारिद्र्योपहतः
उत्तर:
(घ) दारिद्र्योपहतः
(ii) ‘द्विवारम्’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
(क) द्विकृत्वा
(ख) द्विकृत्वः
(ग) कृत्वा
(घ) द्वि
उत्तर:
(ख) द्विकृत्वः
(iii) ‘धनिकवर्गः’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्?
(क) श्रमिकः
(ख) वर्गस्तु
(ग) श्रमिकवर्गः
(घ) श्रमिकवर्गस्त
उत्तर:
(ग) श्रमिकवर्ग:
V. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखता –
(क) ग्रामीणः सज्जनाः
(ख) ग्रामीणानां जीवनम्
(ग) ग्राभ्यजीवनम्
(घ) अशिक्षितानां जीवनम्
उत्तर:
(ग) ग्राम्यजीवनम्।
13 दिल्लीनगरे गणतन्त्रदिवसः विशेषमहोत्सवरूपेण मान्यते। भारतस्य राजधान्याम् अयम् उत्सवः ‘इण्डिया गेट’ भारत द्वारम् इत्याख्ये स्थाने भवति। अस्य आयोजनं भारतीय सेनया क्रियते। राष्ट्रपतिमहोदयो राजकीयं रथम् आरुह्य विशालजनसमूहस्य मध्ये समायाति राष्ट्रध्वजं च उत्तोलयति। स्थल-नभ-जल-सैनिकाः सैनिकरीत्या तं नमस्कुर्वन्ति। ततः एका शोभायात्रा चलति लालकिला-दुर्गं प्राप्नोति। अस्यां शोभायात्रां सशस्त्रसैनिकाः, सैनिकवाद्यानि, टैंक-तोपादि-युद्धास्त्राणि प्रान्तीय-वेषभूषादिसुभूषिताः स्वरूपरचनाः, शारीरिक-प्रदर्शनं कुर्वन्तः विविधानां विद्यालयानां छात्राः, नर्तकाः, गायकादयश्च सम्मिलन्ति। रात्रौ राष्ट्रपतिभवने सचिवालये सार्वजनिकस्थानेषु च विद्युद्दीपकान्तः प्रकाशः भवति यो दर्शकानां मनांसि हरति। यत्र-तत्र अग्निक्रीडायाः प्रदर्शनम् अपि भवति। प्रदेशेषु अपि प्रतिनगरं प्रदर्शनपूर्वकं दिवसोऽयं मान्यते। इमम्
महोत्सवं द्रष्टुं दूरतो जनाः समागच्छन्ति हृदयोल्लासं चानुभवन्ति।
I. एकपदेन उत्तरत –
(i) विशेषमहोत्सवरूपेण दिल्लीनगरे कः मान्यते?
(ii) राष्ट्रध्वजं कः उत्तोलयति?
(iii) रात्रौ कीदृशः प्रकाशः भवति?
(iv) जनाः किम् अनुभवन्ति?
उत्तर:
(i) गणतन्त्रदिवसः
(ii) राष्ट्रपति महोदयः
(iii) विद्युद्दीपकान्तः
(iv) हृदयोल्लासम्।
II. पूर्णवाक्येन उत्तरत –
(i) गणतन्त्रदिवसः कुत्र मान्यते?
(ii) सशस्त्रसैनिकाः कस्यां सम्मिलन्ति?
उत्तर:
(i) गणतन्त्रदिवस: दिल्लीनगरे मान्यते।
(ii) दिल्लीनगरे गणतन्त्रदिवसस्य शोभायात्रायां सशस्त्र सैनिकाः सम्मिलन्ति।
III. ‘इमम् महोत्सवम्’ अत्र ‘इमम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) गणतन्त्र दिवसाय
(ख) स्वतन्त्रता दिवसाय
(ग) राष्ट्रीय दिवसाय
(घ) संस्कृत दिवसाय
उत्तर:
(क) गणतन्त्रदिवसाय।
IV. भाषिक कार्यम् –
(i) “विद्यालयानाम्’ इति पदस्य अत्र किं विशेषण प्रयुक्तम्?
(क) शोभामानानां
(ख) प्रकाशितानां
(ग) विविधानां
(घ) जनानां
उत्तर:
(ग) विविधानां
(ii) ‘चेतांसि’ इत्यर्थ अत्र किं पर्यायपदं प्रयुक्तम्?
(क) यानानि
(ख) मनांसि
(ग) तपांसि
(घ) शरीराणि
उत्तर:
(ख) मनांसि
(iii) सार्वजनीनम्’ इति पदस्य अत्र किं विलोमपदं प्रयुक्तम्?
(क) राजकीयम्
(ख) व्यक्तिगतम्
(ग) सुन्दरतम्
(घ) साधारणम्
उत्तर:
(क) राजकीयम्।
V. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।
उत्तर:
गणतन्त्रदिवसः अथवा दिल्लीनगरे गणतन्त्रदिवस:।
14. प्रतिवर्षम् अगस्तमासस्य पञ्चदशतिथौ भारते स्वतन्त्रता-दिवसोत्सवः मान्यते। दिल्लीनगरे ‘लालकिला’ दुर्गे प्रधानमन्त्रिमहोदयैः राष्ट्रीयध्वजारोहणं क्रियते। तस्मादेव दिनादारभ्य महोत्सवोऽयं प्रतिनगरं प्रतिग्रामं महता समारोहेण मान्यते भारतवासिभिः। स्वतन्त्रतादिवसे प्रात:काले एव नगरे-नगरे ग्रामे-ग्रामे राष्ट्रीय ध्वजारोहण क्रियते। तदनन्तरं नेतृणां भाषणानि भवन्ति। जनाः स्वगृहेषु कार्यालयेषु च राष्ट्रध्वजान् आरोहयन्ति राष्ट्रोन्नत्यै च शपथं कुर्वन्ति, राष्ट्रभक्तानां वीराणां स्मरणं क्रियते। दूरदर्शने दिल्लीनगरस्य स्वतन्त्रतादिवसस्य राष्ट्रीयः कार्यक्रमः दर्श्यते। तत्र प्रधानमन्त्रिणः सन्देशोऽपि श्रुतिगोचरो भवति। तत्र विशालो जनसमूहः तं द्रष्टुम् एकत्रितो भवति। लालकिलादुर्गस्य उपरि निर्मिते मंचे विशिष्टाः अतिथयः उपविशन्ति। सर्व दृश्यम् अतिरमणीयं दर्शनीयं च भवति।
I. एकपदेन उत्तरत –
(i) अगस्तमासस्य पञ्चदशतिथौ प्रतिवर्ष किं मान्यते?
(ii) स्वतन्त्रतादिवसे रक्तदुर्गे कः ध्वजारोहणं करोति?
(iii) स्वदिवसे केषां भाषणानि भवन्ति?
(iv) जनाः कस्मै शपथं कुर्वन्ति?
उत्तर:
(i) स्वतन्त्रादिवसोत्सवः
(ii) प्रधानमन्त्रिमहोदयः
(iii) नेतृणां
(iv) राष्ट्रोन्नत्यै।
II. पूर्णवाक्येन उत्तरत –
(i) दूरदर्शने कीदृशः कार्यक्रमः दर्श्यते?
(ii) दूरदर्शने किं श्रुतिगोचरं भवति?
उत्तर:
(i) दूरदर्शने दिल्लीनगरस्य स्वतन्त्रतादिवसस्य राष्ट्रीयः कार्यक्रमः दर्श्यते।
(ii) दूरदर्शने प्रधानमन्त्रिणः सन्देशोऽपि श्रुतिगोचरः भवति।
III. ‘तं द्रष्टुम्’ अत्र ‘तम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) स्वतन्त्रता दिवसाय
(ख) राष्ट्रीय कार्यक्रमाय
(ग) गणतन्त्र दिवसाय
(घ) कार्यक्रमाय
उत्तर:
(ख) राष्ट्रीयकार्यक्रमाय।
IV. भाषिक कार्यम् –
(i) ‘अतिरमणीयम्’ इति पदस्य किं विशेषणपदम् अत्र प्रयुक्तम्?
(क) मञ्चम्
(ख) स्थानम्
(ग) सर्वम्
(घ) दृश्यम्
उत्तर:
(घ) दृश्यम्
(ii) ‘श्रव्यः’ इत्यर्थे अत्र किं पर्यायपदं प्रयुक्तम्?
(क) श्रुतिगोचरः
(ख) श्रोतव्यः
(ग) विशिष्टः
(घ) दृश्यः
उत्तर:
(क) श्रुतिगोचरः
(iii) ‘सामान्यः’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(क) विशेषाः
(ख) विशेषजनाः
(ग) विशिष्टः
(घ) अतिथयः
उत्तर:
(ग) विशिष्टः।
V. अस्य अनुच्देदस्य कृते समुचित शीर्षकं चिनुत।
(क) स्वतन्त्रतादिवसोत्सवः
(ख) गणतन्त्रदिवसः
(ग) राष्ट्रीय उत्सवः
(घ) स्वतन्त्राया: कार्यक्रमः
उत्तर:
(क) स्वतन्त्रतादिवसोत्सवः।
15. शाटपुट-प्रतियोगिषु रमेशः लौहगोलम् अतिदूरं प्रक्षिप्य नवीनं क्षेपमानम् अस्थापयत्। भारोत्तोलन-प्रतियोगितायां न केनापि उत्साहः प्रदर्शितः, किन्तु मन्दचालप्रतियोगितायां छात्रैः अपूर्वस्य धैर्यस्य प्रदर्शनं कृतम्। द्विचक्रिया-प्रतियोगितायां तु एकः छात्रः मार्गे एव पतितः मूछितश्च। कासुचित् प्रतियोगितासु कन्याभिः अपि भागो गृहीतः। फलप्राप्ति-प्रतियोगिनीषु चञ्चला अतीव चञ्चला जाता। तत्र कन्यकाः चलत्सूत्र-फलानि दन्तैः पुनः पुनः गृहीतुं चेष्टमानाः अतर्कित दृश्यम् उपास्थापयन्। मृद्भाण्ड-त्रयं गृहीत्वा धावन्ती लता पूर्व स्थापितं निजं मानम् अतिलंघ्य सर्वेषां प्रशंसाभाजनं जाता। संगीतमयाऽऽसन-प्रतियोगितायाम् अध्यापकैः अपि भागो गृहीतः। तैः रज्जुकर्षण-प्रतियोगितायाम् अपि अपूर्वः उत्साहः प्रदर्शितः। तत्र संस्कृताध्यापकः प्रथम स्थान प्राप्नोत्। प्रतियोगिता-परिसमाप्तौ अध्यक्षमहाभागैः पारितोषिकानि प्रदत्तानि। इत्थम् अयं प्रतियोगिता-समारोहः सर्वेषां हर्षातिरेकम् अजनयत्।
I. एकपदेन उत्तरत –
(i) कस्या प्रतियोगितायां केनापि उत्साहः न प्रदर्शितः?
(ii) कस्यां प्रतियोगितायां छात्रैः अपूर्वस्य धैर्यस्य प्रदर्शनं कृतम्?
(iii) चञ्चला कासु अतीव चञ्चला जाता?
(iii) कं गृहीत्वा धावन्ती लता सर्वेषां प्रशंसाभाजनं जाता?
उत्तर:
(i) भारोत्तोलनप्रतियोगितायाम .
(ii) मन्दचालप्रतियोगितायाम्
(iii) फलप्राप्तिप्रतियोगिनीषु
(iv) मृद्भाण्डत्रम्
II. पूर्णवाक्येन उत्तरत –
(ii) प्रतियोगिता-समाप्तौ कैः पारितोषिकानि प्रदत्तानि?
(ii) क्रीडाप्रतियोगितासमारोहः केषां हर्षातिरेकम् अजनयत्?
उत्तर:
(i) प्रतियोगितासमाप्तौ पारितोषिकानि अध्यक्षमहोदयैः प्रदत्तानि।
(ii) क्रीडाप्रतियोगितासमारोहः सर्वेषां हर्षातिरेकम् अजनयत्।
III. अनुच्छेदे ‘तैः’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
(क) छात्रेभ्यः
(ख) क्रीडकेभ्यः
(ग) अध्यापकेभ्यः
(व) कर्मचारिभ्यः
उत्तर:
(ग) अध्यापकेभ्यः।
IV. भाषिक कार्यम् –
(i) ‘स्थानम्’ इति पदस्य किं विशेषणपदम् प्रयुक्तम्?
(क) प्रथमम्
(ख) द्वितीयम्
(ग) चतुर्थम्
(घ) तृतीयम्
उत्तर:
(क) प्रथमम्
(ii) ‘नीत्वा’ इत्यर्थे किं पर्यायपदं प्रयुक्तम्?
(क) आनीय
(ख) उपनीय
(ग) अनुनीय
(घ) गृहीत्वा
उत्तर:
(घ) गृहीत्वा
(iii) ‘निन्दाभाजनम्’ इति अस्य किं विलोमपदं अत्र प्रयुक्तम्?
(क) प्रशंसा पात्रम्
(ख) प्रशंसा भाजनम्
(ग) प्रशंसाम्
(घ) उत्साहम्
उत्तर:
(ख) प्रशंसा भाजनम्।
V. अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं चिनुत।
(क) क्रीडायाः वर्णनम्
(ख) क्रीडादृशम्
(ग) क्रीडायाः क्षेत्रम्
(घ) क्रीडाप्रतियोगिता
उत्तर:
(घ) क्रीडाप्रतियोगिता।